|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.315. अध्यायः 315
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति भूतसृष्टिप्रकारादिप्रतिपादकजनकयाज्ञवल्क्यसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-315-0x(6503)(78203)
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंशयात्।
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः॥ 12-315-1(78204)
यच्छिवं नित्यमभयं नित्यमक्षरमव्ययम्।
शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति॥ 12-315-2(78205)
भीष्म उवाच। 12-315-3x(6504)
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्।
याज्ञवल्क्यस्य संवादं जनकस्य च भारत॥ 12-315-3(78206)
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः।
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदांवरः॥ 12-315-4(78207)
जनक उवाच। 12-315-5x(6505)
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः।
किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम्॥ 12-315-5(78208)
प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च।
वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः॥ 12-315-6(78209)
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः।
तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम्॥ 12-315-7(78210)
याज्ञवल्क्य उवाच। 12-315-8x(6506)
श्रूयतामवनीपाल यदेतदनुपृच्छसि।
योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः॥ 12-315-8(78211)
त तवाविदितं किंचिन्मां तु जिज्ञासते भवान्।
पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः॥ 12-315-9(78212)
अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश।
आसां तु सप्त व्यक्तानि प्राहुरध्यात्मचिन्तकाः॥ 12-315-10(78213)
अव्यक्तं च महांश्चैव तथाऽहंकार एव च।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥ 12-315-11(78214)
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु।
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्॥ 12-315-12(78215)
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च।
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च॥ 12-315-13(78216)
एते विशेषा राजेन्द्रा महाभूतेषु पञ्चसु।
बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल॥ 12-315-14(78217)
मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः।
त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः॥ 12-315-15(78218)
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव।
प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः॥ 12-315-16(78219)
महतश्चाप्यहंकार उत्पद्यति नराधिप।
द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम्॥ 12-315-17(78220)
अहंकाराच्च संभूतं मनो भूतगुणात्मकम्।
तृतीयः सर्ग इत्येष आहंकारिक उच्यते॥ 12-315-18(78221)
मनसस्तु समुद्भूता महाभूता नराधिप।
चतुर्थं सर्गमित्येतन्मानसं चिन्तनात्मकम्॥ 12-315-19(78222)
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च।
पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः॥ 12-315-20(78223)
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्।
सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम्॥ 12-315-21(78224)
अधः श्रोत्रेन्द्रियग्राम उत्पद्यदि नराधिप।
सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम्॥ 12-315-22(78225)
ऊर्ध्वं स्रोतस्तथा तिर्यगुत्पद्यति नराधिप।
अष्टमं सर्गमित्याहुरेतदार्जवकं स्मृतम्॥ 12-315-23(78226)
तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप।
नवमं सर्गमित्याहुरेतदार्जवकं बुधाः॥ 12-315-24(78227)
एते वै नव सर्गा हि तत्त्वानि च नराधिप।
चतुर्विशतिरुक्तानि यथाश्रुतिनिदर्शनम्॥ 12-315-25(78228)
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः।
महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे॥ ॥ 12-315-26(78229)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चदशाधिकत्रिशततमोऽध्यायः॥ 315॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|